७.२.९

सर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।
नित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥

M N Dutt

And an account of every season being genial at that spot and also of the loveliness of the wood, the damsels, repairing to this place. ever disport there.

पदच्छेदः

सर्वर्तुषूपभोग्यत्वाद्सर्व–ऋतु (७.३)–उपभोग्य (√उप-भुज् + कृत्)–त्व (५.१)
रम्यत्वात्रम्य–त्व (५.१)
काननस्यकानन (६.१)
(अव्ययः)
नित्यशस्तास्तुनित्यशस् (अव्ययः)–तद् (१.३)–तु (अव्ययः)
तंतद् (२.१)
देशंदेश (२.१)
गत्वागत्वा (√गम् + क्त्वा)
क्रीडन्तिक्रीडन्ति (√क्रीड् लट् प्र.पु. बहु.)
कन्यकाःकन्यका (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्वर्तु षू भो ग्य त्वा
द्र म्य त्वा त्कास्य
नित्य स्तास्तु तं दे शं
त्वा क्रीन्तिन्य काः