७.२.१०

अथ रुष्टो महातेजा व्याजहार महामुनिः ।
या मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥

पदच्छेदः

अथअथ (अव्ययः)
रुष्टोरुष्ट (√रुष् + क्त, १.१)
महातेजामहत्–तेजस् (१.१)
व्याजहारव्याजहार (√व्या-हृ लिट् प्र.पु. एक.)
महामुनिःमहत्–मुनि (१.१)
यायद् (१.१)
मेमद् (६.१)
दर्शनम्दर्शन (२.१)
आगच्छेत्आगच्छेत् (√आ-गम् विधिलिङ् प्र.पु. एक.)
सातद् (१.१)
गर्भंगर्भ (२.१)
धारयिष्यतिधारयिष्यति (√धारय् लृट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

रु ष्टो हा ते जा
व्या हा हामु निः
या मेर्श मा च्छे
त्सा र्भं धा यिष्यति