७.२१.१८

अन्योन्यं च महाभागा जघ्नुः प्रहरणैर्युधि ।
यमस्य च महत्सैन्यं राक्षसस्य च मन्त्रिणः ॥

पदच्छेदः

अन्योन्यंअन्योन्य (२.१)
(अव्ययः)
महाभागामहाभाग (१.३)
जघ्नुःजघ्नुः (√हन् लिट् प्र.पु. बहु.)
प्रहरणैर्प्रहरण (३.३)
युधियुध् (७.१)
यमस्ययम (६.१)
(अव्ययः)
महत्महत् (१.१)
सैन्यंसैन्य (१.१)
राक्षसस्यराक्षस (६.१)
(अव्ययः)
मन्त्रिणःमन्त्रिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

न्यो न्यं हा भा गा
घ्नुःप्र णैर्युधि
स्य त्सै न्यं
राक्षस्यन्त्रि णः