७.२१.२२

तांस्तु सर्वान्समाक्षिप्य तदस्त्रमपहत्य च ।
जघ्नुस्ते राक्षसं घोरमेकं शतसहस्रकः ॥

M N Dutt

And snapping those weapons and resisting (those volleys of) arms, they smote at the Räkșasa fighting alone by hundreds and thousands.

पदच्छेदः

तांस्तुतद् (२.३)–तु (अव्ययः)
सर्वान्सर्व (२.३)
समाक्षिप्यसमाक्षिप्य (√समा-क्षिप् + ल्यप्)
तद्तद् (२.१)
अस्त्रम्अस्त्र (२.१)
अपहत्यअपहत्य (√अप-हन् + ल्यप्)
(अव्ययः)
जघ्नुस्तेजघ्नुः (√हन् लिट् प्र.पु. बहु.)–तद् (१.३)
राक्षसंराक्षस (२.१)
घोरम्घोर (२.१)
एकंएक (२.१)
शतसहस्रकःशत–सहस्रक (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांस्तु र्वान्स मा क्षिप्य
स्त्रत्य
घ्नु स्ते राक्ष सं घो
मे कंस्र कः