७.२२.३१

ततो विदुद्रुवुः सर्वे सत्त्वास्तस्माद्रणाजिरात् ।
सुराश्च क्षुभिता दृष्ट्वा कालदण्डोद्यतं यमम् ॥

M N Dutt

In the field of battle, everyone afficted with fear, ran away from it. And beholding Yama with his rod uplifted, the celestials were agitated.

पदच्छेदः

ततोततस् (अव्ययः)
विदुद्रुवुःविदुद्रुवुः (√वि-द्रु लिट् प्र.पु. बहु.)
सर्वेसर्व (१.३)
सत्त्वास्तस्माद्सत्त्व (१.३)–तद् (५.१)
रणाजिरात्रण–अजिर (५.१)
सुराश्चसुर (१.३)–च (अव्ययः)
क्षुभिताक्षुभित (√क्षुभ् + क्त, १.३)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
कालदण्डोद्यतंकालदण्ड–उद्यत (√उत्-यम् + क्त, २.१)
यमम्यम (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तोवि दुद्रु वुः र्वे
त्त्वा स्त स्माद्र णाजि रात्
सु रा श्चक्षुभि ता दृ ष्ट्वा
का ण्डोद्य तं मम्