७.२२.६

ततो लोकास्त्रयस्त्रस्ताः कम्पन्ते च दिवौकसः ।
कालं क्रुद्धं तदा दृष्ट्वा लोकत्रयभयावहम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
लोकास्त्रयस्त्रस्ताःलोक (१.३)–त्रि (१.३)–त्रस्त (√त्रस् + क्त, १.३)
कम्पन्तेकम्पन्ते (√कम्प् लट् प्र.पु. बहु.)
(अव्ययः)
दिवौकसःदिवौकस् (१.३)
कालंकाल (२.१)
क्रुद्धंक्रुद्ध (√क्रुध् + क्त, २.१)
तदातदा (अव्ययः)
दृष्ट्वादृष्ट्वा (√दृश् + क्त्वा)
लोकत्रयभयावहम्लोकत्रय–भय–आवह (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो लो कास्त्र स्त्र स्ताः
म्प न्तेदि वौ सः
का लं क्रु द्धं दा दृ ष्ट्वा
लोत्र या हम्