७.२२.८

लघुसत्त्वतया सर्वे नष्टसंज्ञा भयार्दिताः ।
नात्र योद्धुं समर्थाः स्म इत्युक्त्वा विप्रदुद्रुवुः ॥

M N Dutt

In vonsequence of their being comparatively inferior in point of strength they were deprived of their senses, and afficted with fear; and saying, 'Here we are not equal to fighting' they went their way.

पदच्छेदः

लघुसत्त्वतयालघु–सत्त्व–ता (३.१)
सर्वेसर्व (१.३)
नष्टसंज्ञानष्ट (√नश् + क्त)–संज्ञा (१.३)
भयार्दिताःभय–अर्दित (√अर्दय् + क्त, १.३)
नात्र (अव्ययः)–अत्र (अव्ययः)
योद्धुंयोद्धुम् (√युध् + तुमुन्)
समर्थाःसमर्थ (१.३)
स्मस्मः (√अस् लट् उ.पु. द्वि.)
इत्युक्त्वाइति (अव्ययः)–उक्त्वा (√वच् + क्त्वा)
विप्रदुद्रुवुःविप्रदुद्रुवुः (√विप्र-द्रु लिट् प्र.पु. बहु.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

घुत्त्व या र्वे
ष्ट सं ज्ञा यार्दि ताः
नात्र यो द्धुं र्थाःस्म
त्यु क्त्वा विप्र दुद्रु वुः