७.२३.१६

ततः पाण्डुरमेघाभं कैलासमिव संस्थितम् ।
वरुणस्यालयं दिव्यमपश्यद्राक्षसाधिपः ॥

पदच्छेदः

ततःततस् (अव्ययः)
पाण्डुरमेघाभंपाण्डुर–मेघ–आभ (२.१)
कैलासम्कैलास (२.१)
इवइव (अव्ययः)
संस्थितम्संस्थित (√सम्-स्था + क्त, २.१)
वरुणस्यालयंवरुण (६.१)–आलय (२.१)
दिव्यम्दिव्य (२.१)
अपश्यद्अपश्यत् (√पश् लङ् प्र.पु. एक.)
राक्षसाधिपःराक्षस–अधिप (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः पाण्डु मे घा भं
कै लामि संस्थि तम्
रु स्या यं दिव्य
श्य द्राक्ष साधि पः