७.२३.१७

क्षरन्तीं च पयो नित्यं सुरभिं गामवस्थिताम् ।
यस्याः पयोविनिष्यन्दात्क्षीरोदो नाम सागरः ॥

पदच्छेदः

क्षरन्तींक्षरत् (√क्षर् + शतृ, २.१)
(अव्ययः)
पयोपयस् (२.१)
नित्यंनित्यम् (अव्ययः)
सुरभिंसुरभि (२.१)
गाम्गो (२.१)
अवस्थिताम्अवस्थित (√अव-स्था + क्त, २.१)
यस्याःयद् (६.१)
पयोविनिष्यन्दात्पयस्–विनिष्यन्द (५.१)
क्षीरोदोक्षीरोद (१.१)
नामनाम (अव्ययः)
सागरःसागर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष न्तीं यो नि त्यं
सु भिं गास्थि ताम्
स्याः योवि नि ष्य न्दा
त्क्षी रो दो ना सा रः