७.२४.१८

ततो राक्षसराजस्य स्वसा परमदुःखिता ।
पादयोः पतिता तस्य वक्तुमेवोपचक्रमे ॥

पदच्छेदः

ततोततस् (अव्ययः)
राक्षसराजस्यराक्षस–राज (६.१)
स्वसास्वसृ (१.१)
परमदुःखितापरम–दुःखित (१.१)
पादयोःपाद (७.२)
पतितापतित (√पत् + क्त, १.१)
तस्यतद् (६.१)
वक्तुम्वक्तुम् (√वच् + तुमुन्)
एवोपचक्रमेएव (अव्ययः)–उपचक्रमे (√उप-क्रम् लिट् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो राक्ष रास्य
स्व सा दुःखि ता
पा योःति तास्य
क्तु मे वोक्र मे