७.२४.३४

स तैः सर्वैः परिवृतो राक्षसैर्घोरदर्शनैः ।
खरः संप्रययौ शीघ्रं दण्डकानकुतोभयः ॥

पदच्छेदः

तद् (१.१)
तैःतद् (३.३)
सर्वैःसर्व (३.३)
परिवृतोपरिवृत (√परि-वृ + क्त, १.१)
राक्षसैर्राक्षस (३.३)
घोरदर्शनैःघोर–दर्शन (३.३)
खरःखर (१.१)
सम्प्रययौसम्प्रययौ (√सम्प्र-या लिट् प्र.पु. एक.)
शीघ्रंशीघ्रम् (अव्ययः)
दण्डकान्दण्डक (२.३)
अकुतोभयःअकुतोभय (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तैः र्वैःरिवृ तो
राक्ष सै र्घोर्श नैः
रः संप्र यौ शी घ्रं
ण्ड काकु तो यः