७.२४.३३

एवमुक्त्वा दशग्रीवः सैन्यं तस्यादिदेश ह ।
चतुर्दश सहस्राणि रक्षसां कामरूपिणाम् ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्त्वाउक्त्वा (√वच् + क्त्वा)
दशग्रीवःदशग्रीव (१.१)
सैन्यंसैन्य (२.१)
तस्यादिदेशतद् (६.१)–आदिदेश (√आ-दिश् लिट् प्र.पु. एक.)
(अव्ययः)
चतुर्दशचतुर्दशन् (१.१)
सहस्राणिसहस्र (१.३)
रक्षसांरक्षस् (६.३)
कामरूपिणाम्कामरूपिन् (६.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्त्वा ग्री वः
सै न्यं स्यादि दे
तुर्द स्राणि
क्ष सां का रूपि णाम्