७.२४.४

दीर्घकेश्यः सुचार्वङ्ग्यः पूर्णचन्द्रनिभाननाः ।
शोकायत्तास्तरुण्यश्च समस्ता स्तननम्रिताः ॥

पदच्छेदः

दीर्घकेश्यःदीर्घ–केश (१.३)
सुचार्वङ्ग्यःसु (अव्ययः)–चारु–अङ्ग (१.३)
पूर्णचन्द्रनिभाननाःपूर्ण–चन्द्र–निभ–आनन (१.३)
शोकायत्तास्तरुण्यश्चशोक–आयत्त (√आ-यत् + क्त, १.३)–तरुणी (१.३)–च (अव्ययः)
समस्ताःसमस्त (१.३)
स्तननम्रिताःस्तन–नम्रित (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दीर्घ के श्यःसु चा र्व ङ्ग्यः
पूर्णन्द्रनि भा नाः
शो का त्तास्त रु ण्यश्च
स्तास्तम्रि ताः