७.२५.२३

मातामहस्य योऽस्माकं ज्येष्ठो भ्राता सुमालिनः ।
माल्यवानिति विख्यातो वृद्धप्राज्ञो निशाचरः ॥

पदच्छेदः

मातामहस्यमातामह (६.१)
योयद् (१.१)
ऽस्माकंमद् (६.३)
ज्येष्ठोज्येष्ठ (१.१)
भ्राताभ्रातृ (१.१)
सुमालिनःसुमालिन् (६.१)
माल्यवान्माल्यवन्त् (१.१)
इतिइति (अव्ययः)
विख्यातोविख्यात (√वि-ख्या + क्त, १.१)
वृद्धप्राज्ञोवृद्ध–प्राज्ञ (१.१)
निशाचरःनिशाचर (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा तास्य यो ऽस्मा कं
ज्ये ष्ठो भ्रा तासु मालि नः
माल्य वानिति वि ख्या तो
वृ द्ध प्रा ज्ञोनि शा रः