७.२५.२२

विभीषणस्तु संक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।
श्रूयतामस्य पापस्य कर्मणः फलमागतम् ॥

M N Dutt

Worked up with ire Vibhîşana said to his brother: "Hear, the fruit of your vicious actions has arrived.

पदच्छेदः

विभीषणस्तुविभीषण (१.१)–तु (अव्ययः)
संक्रुद्धोसंक्रुद्ध (√सम्-क्रुध् + क्त, १.१)
भ्रातरंभ्रातृ (२.१)
वाक्यम्वाक्य (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
श्रूयताम्श्रूयताम् (√श्रु प्र.पु. एक.)
अस्यइदम् (६.१)
पापस्यपाप (६.१)
कर्मणःकर्मन् (६.१)
फलम्फल (१.१)
आगतम्आगत (√आ-गम् + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

वि भीस्तु सं क्रु द्धो
भ्रा रं वाक्यब्र वीत्
श्रू तास्य पास्य
र्म णः मा तम्