७.२५.२५

मातृष्वसुरथास्माकं सा कन्या चानलोद्भवा ।
भवत्यस्माकमेषा वै भ्रातॄणां धर्मतः स्वसा ॥

पदच्छेदः

मातृष्वसुर्मातृष्वसृ (६.१)
अथास्माकंअथ (अव्ययः)–मद् (६.३)
सातद् (१.१)
कन्याकन्या (१.१)
चानलोद्भवा (अव्ययः)–अनल–उद्भव (१.१)
भवत्यस्माकम्भवति (√भू लट् प्र.पु. एक.)–मद् (६.३)
एषाएतद् (१.१)
वैवै (अव्ययः)
भ्रातॄणांभ्रातृ (६.३)
धर्मतःधर्म (५.१)
स्वसास्वसृ (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा तृष्वसु था स्मा कं
सा न्या चा लोद्भ वा
त्य स्मा मे षा वै
भ्रा तॄ णांर्म तःस्व सा