७.२५.२६

सा हृता मधुना राजन्राक्षसेन बलीयसा ।
यज्ञप्रवृत्ते पुत्रे ते मयि चान्तर्जलोषिते ॥

पदच्छेदः

सातद् (१.१)
हृताहृत (√हृ + क्त, १.१)
मधुनामधु (३.१)
राजन्राजन् (८.१)
राक्षसेनराक्षस (३.१)
बलीयसाबलीयस् (३.१)
यज्ञप्रवृत्तेयज्ञ–प्रवृत्त (√प्र-वृत् + क्त, ७.१)
पुत्रेपुत्र (७.१)
तेत्वद् (६.१)
मयिमद् (७.१)
चान्तर्जलोषिते (अव्ययः)–अन्तर् (अव्ययः)–जल–उषित (√वस् + क्त, ७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

साहृ ताधु ना रा
न्राक्ष से ली सा
ज्ञप्र वृ त्ते पु त्रे ते
यि चा न्तर्ज लोषि ते