७.२५.४५

इत्युक्ता सा प्रसुप्तं तं समुत्थाप्य निशाचरम् ।
अब्रवीत्संप्रहृष्टेव राक्षसी सुविपश्चितम् ॥

पदच्छेदः

इत्युक्ताइति (अव्ययः)–उक्त (√वच् + क्त, १.१)
सातद् (१.१)
प्रसुप्तंप्रसुप्त (√प्र-स्वप् + क्त, २.१)
तंतद् (२.१)
समुत्थाप्यसमुत्थाप्य (√समुत्-स्थापय् + ल्यप्)
निशाचरम्निशाचर (२.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
सम्प्रहृष्टेवसम्प्रहृष्ट (√सम्प्र-हृष् + क्त, १.१)–इव (अव्ययः)
राक्षसीराक्षसी (१.१)
सुविपश्चितम्सु (अव्ययः)–विपश्चित् (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्यु क्ता साप्र सु प्तं तं
मु त्थाप्यनि शा रम्
ब्र वी त्संप्र हृ ष्टे
राक्ष सीसुविश्चि तम्