७.२५.९

माहेश्वरे प्रवृत्ते तु यज्ञे पुम्भिः सुदुर्लभे ।
वरांस्ते लब्धवान्पुत्रः साक्षात्पशुपतेरिह ॥

पदच्छेदः

माहेश्वरेमाहेश्वर (७.१)
प्रवृत्तेप्रवृत्त (√प्र-वृत् + क्त, ७.१)
तुतु (अव्ययः)
यज्ञेयज्ञ (७.१)
पुंभिःपुंस् (३.३)
सुदुर्लभेसु (अव्ययः)–दुर्लभ (७.१)
वरांस्तेवर (२.३)–त्वद् (६.१)
लब्धवान्लब्धवत् (√लभ् + क्तवतु, १.१)
पुत्रःपुत्र (१.१)
साक्षात्साक्षात् (अव्ययः)
पशुपतेर्पशुपति (६.१)
इहइह (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मा हेश्व रेप्र वृ त्तेतु
ज्ञे पु म्भिःसु दुर्ल भे
रां स्तेब्ध वा न्पु त्रः
सा क्षात्पशु तेरि