७.२६.२३

बाढमित्येव सा रम्भा प्राह रावणमुत्तरम् ।
धर्मतस्ते सुतस्याहं भार्या राक्षसपुंगव ॥

पदच्छेदः

बाढम्बाढ (१.१)
इत्येवइति (अव्ययः)–एव (अव्ययः)
सातद् (१.१)
रम्भारम्भा (१.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
रावणम्रावण (२.१)
उत्तरम्उत्तर (२.१)
धर्मतस्तेधर्म (५.१)–त्वद् (६.१)
सुतस्याहंसुत (६.१)–मद् (१.१)
भार्याभार्या (१.१)
राक्षसपुंगवराक्षस–पुंगव (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

बा मि त्ये सा म्भा
प्रा रा मुत्त रम्
र्म स्तेसु स्या हं
भा र्या राक्ष पुं