७.२६.२२

अब्रवीत्तां दशग्रीवश्चरणाधोमुखीं स्थिताम् ।
सुतस्य यदि मे भार्या ततस्त्वं मे स्नुषा भवेः ॥

पदच्छेदः

अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तांतद् (२.१)
दशग्रीवश्चरणाधोमुखींदशग्रीव (१.१)–चरण–अधोमुख (२.१)
स्थिताम्स्थित (√स्था + क्त, २.१)
सुतस्यसुत (६.१)
यदियदि (अव्ययः)
मेमद् (६.१)
भार्याभार्या (१.१)
ततस्त्वंततस् (अव्ययः)–त्वद् (१.१)
मेमद् (६.१)
स्नुषास्नुषा (१.१)
भवेःभवेः (√भू विधिलिङ् म.पु. )

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ब्र वी त्तां ग्री
श्च णा धोमु खींस्थि ताम्
सुस्यदि मे भा र्या
स्त्वं मेस्नु षा वेः