७.२६.३

कर्णिकारवनैर्दिव्यैः कदम्बगहनैस्तथा ।
पद्मिनीभिश्च फुल्लाभिर्मन्दाकिन्या जलैरपि ॥

पदच्छेदः

कर्णिकारवनैर्कर्णिकार–वन (३.३)
दिव्यैःदिव्य (३.३)
कदम्बगहनैस्तथाकदम्ब–गहन (३.३)–तथा (अव्ययः)
पद्मिनीभिश्चपद्मिनी (३.३)–च (अव्ययः)
फुल्लाभिर्फुल्ल (३.३)
मन्दाकिन्यामन्दाकिनी (६.१)
जलैर्जल (३.३)
अपिअपि (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

र्णि का नै र्दि व्यैः
म्ब नैस्त था
द्मि नी भिश्च फु ल्लाभि
र्म न्दा कि न्या लैपि