७.२६.५

पुष्पवर्षाणि मुञ्चन्तो नगाः पवनताडिताः ।
शैलं तं वासयन्तीव मधुमाधवगन्धिनः ॥

M N Dutt

Being shaken by the wind the nectar-smelling trees made the hill fragrant with the shower of flowers.

पदच्छेदः

पुष्पवर्षाणिपुष्प–वर्ष (२.३)
मुञ्चन्तोमुञ्चत् (√मुच् + शतृ, १.३)
नगाःनग (१.३)
पवनताडिताःपवन–ताडित (√ताडय् + क्त, १.३)
शैलंशैल (२.१)
तंतद् (२.१)
वासयन्तीववासयन्ति (√वासय् लट् प्र.पु. बहु.)–इव (अव्ययः)
मधुमाधवगन्धिनःमधु–माधव–गन्धिन् (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्प र्षाणि मु ञ्च न्तो
गाः ताडि ताः
शै लं तं वा न्ती
धु मान्धि नः