७.२७.३

श्रुत्वा तु रावणं प्राप्तमिन्द्रः संचलितासनः ।
अब्रवीत्तत्र तान्देवान्सर्वानेव समागतान् ॥

पदच्छेदः

श्रुत्वाश्रुत्वा (√श्रु + क्त्वा)
तुतु (अव्ययः)
रावणंरावण (२.१)
प्राप्तम्प्राप्त (√प्र-आप् + क्त, २.१)
इन्द्रःइन्द्र (१.१)
संचलितासनःसंचलित (√सम्-चल् + क्त)–आसन (१.१)
अब्रवीत्अब्रवीत् (√ब्रू लङ् प्र.पु. एक.)
तत्रतत्र (अव्ययः)
तान्तद् (२.३)
देवान्देव (२.३)
सर्वान्सर्व (२.३)
एवएव (अव्ययः)
समागतान्समागत (√समा-गम् + क्त, २.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

श्रु त्वातु रा णं प्राप्त
मि न्द्रः संलि ता नः
ब्र वी त्तत्र ता न्दे वा
न्स र्वा ने मा तान्