७.२७.२

तस्य राक्षससैन्यस्य समन्तादुपयास्यतः ।
देवलोकं ययौ शब्दो भिद्यमानार्णवोपमः ॥

M N Dutt

There arose in the region of celestials an uproar from the Rākṣasa army, like to the sound of the agitated deep.

पदच्छेदः

तस्यतद् (६.१)
राक्षससैन्यस्यराक्षस–सैन्य (६.१)
समन्ताद्समन्तात् (अव्ययः)
उपयास्यतःउपयास्यत् (√उप-या + कृत्, ६.१)
देवलोकंदेव–लोक (२.१)
ययौययौ (√या लिट् प्र.पु. एक.)
शब्दोशब्द (१.१)
भिद्यमानार्णवोपमःभिद्यमान (√भिद् + शानच्)–अर्णव–उपम (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्य राक्ष सै न्यस्य
न्तादु यास्य तः
दे लो कं यौ ब्दो
भिद्य मा नार्ण वो मः