७.२७.३९

तां प्रदीप्तां प्रगृह्याशु कालदण्डनिभां शुभाम् ।
तस्य मूर्धनि सावित्रः सुमालेर्विनिपातयत् ॥

पदच्छेदः

तांतद् (२.१)
प्रदीप्तांप्रदीप्त (√प्र-दीप् + क्त, २.१)
प्रगृह्याशुप्रगृह्य (√प्र-ग्रह् + ल्यप्)–आशु (अव्ययः)
कालदण्डनिभांकाल–दण्ड–निभ (२.१)
शुभाम्शुभ (२.१)
तस्यतद् (६.१)
मूर्धनिमूर्धन् (७.१)
सावित्रःसावित्र (१.१)
सुमालेर्सुमालि (६.१)
विनिपातयत्विनिपातयत् (√विनि-पातय् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तांप्र दी प्तांप्र गृ ह्याशु
काण्डनि भांशु भाम्
स्य मूर्धनि सा वि त्रः
सु मा लेर्विनि पा यत्