७.२७.८

वरप्रदानाद्बलवान्न खल्वन्येन हेतुना ।
तच्च सत्यं हि कर्तव्यं वाक्यं देव प्रजापतेः ॥

पदच्छेदः

वरप्रदानाद्वर–प्रदान (५.१)
बलवान्नबलवत् (१.१)–न (अव्ययः)
खल्वन्येनखलु (अव्ययः)–अन्य (३.१)
हेतुनाहेतु (३.१)
तच्चतद् (१.१)–च (अव्ययः)
सत्यंसत्य (१.१)
हिहि (अव्ययः)
कर्तव्यंकर्तव्य (√कृ + कृत्, १.१)
वाक्यंवाक्य (१.१)
देवदेव (८.१)
प्रजापतेःप्रजापति (६.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र दा नाद्ब वा
न्न ल्व न्ये हेतु ना
च्च त्यंहि र्त व्यं
वा क्यं देप्र जा तेः