७.२८.११

शचीसुतस्त्वपि तथा जयन्तस्तस्य सारथिम् ।
तं चैव रावणिं क्रुद्धः प्रत्यविध्यद्रणाजिरे ॥

पदच्छेदः

शचीसुतस्त्वपिशची–सुत (१.१)–तु (अव्ययः)–अपि (अव्ययः)
तथातथा (अव्ययः)
जयन्तस्तस्यजयन्त (१.१)–तद् (६.१)
सारथिम्सारथि (२.१)
तंतद् (२.१)
चैव (अव्ययः)–एव (अव्ययः)
रावणिंरावणि (२.१)
क्रुद्धःक्रुद्ध (√क्रुध् + क्त, १.१)
प्रत्यविध्यद्प्रत्यविध्यत् (√प्रति-व्यध् लङ् प्र.पु. एक.)
रणाजिरेरण–अजिर (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चीसुस्त्वपि था
न्त स्तस्य सा थिम्
तं चै रा णिं क्रु द्धः
प्रत्य वि ध्यद्र णाजि रे