७.२८.१२

ततः क्रुद्धो महातेजा रक्षो विस्फारितेक्षणः ।
रावणिः शक्रपुत्रं तं शरवर्षैरवाकिरत् ॥

पदच्छेदः

ततःततस् (अव्ययः)
क्रुद्धोक्रुद्ध (√क्रुध् + क्त, १.१)
महातेजामहत्–तेजस् (१.१)
रक्षोरक्ष (१.१)
विस्फारितेक्षणःविस्फारित (√वि-स्फारय् + क्त)–ईक्षण (१.१)
रावणिःरावणि (१.१)
शक्रपुत्रंशक्र–पुत्र (२.१)
तंतद् (२.१)
शरवर्षैर्शर–वर्ष (३.३)
अवाकिरत्अवाकिरत् (√अव-कृ लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तः क्रु द्धो हा ते जा
क्षो वि स्फारि तेक्ष णः
रा णिःक्र पु त्रं तं
र्षै वाकि रत्