७.२८.३६

केचिद्विनिहताः शस्त्रैर्वेष्टन्ति स्म महीतले ।
वाहनेष्ववसक्ताश्च स्थिता एवापरे रणे ॥

पदच्छेदः

केचिद्कश्चित् (१.३)
विनिहताःविनिहत (√विनि-हन् + क्त, १.३)
शस्त्रैर्शस्त्र (३.३)
वेष्टन्तिवेष्टन्ति (√वेष्ट् लट् प्र.पु. बहु.)
स्मस्म (अव्ययः)
महीतलेमही–तल (७.१)
वाहनेष्ववसक्ताश्चवाहन (७.३)–अवसक्त (√अव-सञ्ज् + क्त, १.३)–च (अव्ययः)
स्थितास्थित (√स्था + क्त, १.३)
एवापरेएव (अव्ययः)–अपर (१.३)
रणेरण (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

के चिद्विनि ताः स्त्रै
र्वे ष्ट न्तिस्म ही ले
वा नेष्व क्ताश्च
स्थि ता वा रे णे