७.२८.३८

तान्समालिङ्ग्य बाहुभ्यां विष्टब्धाः केचिदुच्छ्रिताः ।
देवैस्तु शस्त्रसंविद्धा मम्रिरे च निशाचराः ॥

पदच्छेदः

तान्तद् (२.३)
समालिङ्ग्यसमालिङ्ग्य (√समा-लिङ्गय् + ल्यप्)
बाहुभ्यांबाहु (३.२)
विष्टब्धाःविष्टब्ध (√वि-स्तम्भ् + क्त, १.३)
केचिद्कश्चित् (१.३)
उच्छ्रिताःउच्छ्रित (√उत्-श्रि + क्त, १.३)
देवैस्तुदेव (३.३)–तु (अव्ययः)
शस्त्रसंविद्धाशस्त्र–संविद्ध (√सम्-व्यध् + क्त, १.३)
मम्रिरेमम्रिरे (√मृ लिट् प्र.पु. बहु.)
(अव्ययः)
निशाचराःनिशाचर (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तान्स मा लिङ्ग्य बा हु भ्यां
वि ष्ट ब्धाः केचि दुच्छ्रि ताः
दे वैस्तुस्त्र सं वि द्धा
म्रि रेनि शा राः