७.२८.३९

चित्रकर्म इवाभाति स तेषां रणसंप्लवः ।
निहतानां प्रमत्तानां राक्षसानां महीतले ॥

पदच्छेदः

चित्रकर्मचित्र–कर्मन् (१.१)
इवाभातिइव (अव्ययः)–आभाति (√आ-भा लट् प्र.पु. एक.)
तद् (१.१)
तेषांतद् (६.३)
रणसंप्लवःरण–सम्प्लव (१.१)
निहतानांनिहत (√नि-हन् + क्त, ६.३)
प्रमत्तानांप्रमत्त (√प्र-मद् + क्त, ६.३)
राक्षसानांराक्षस (६.३)
महीतलेमही–तल (७.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चित्रर्म वा भाति
ते षां संप्ल वः
नि ता नांप्र त्ता नां
राक्ष सा नां ही ले