७.२९.७

अद्यैतांस्त्रिदशान्सर्वान्विक्रमैः समरे स्वयम् ।
नानाशस्त्रैर्महासारैर्नाशयामि नभस्तलात् ॥

M N Dutt

I shall soon in the field of battle, with the stroke of various weapons despatch all the deities to the abode of Death,

पदच्छेदः

अद्यैतांस्त्रिदशान्अद्य (अव्ययः)–एतद् (२.३)–त्रिदश (२.३)
सर्वान्सर्व (२.३)
विक्रमैःविक्रम (३.३)
समरेसमर (७.१)
स्वयम्स्वयम् (अव्ययः)
नानाशस्त्रैर्नाना (अव्ययः)–शस्त्र (३.३)
महासारैर्महत्–सार (३.३)
नाशयामिनाशयामि (√नाशय् लट् उ.पु. )
नभस्तलात्नभस्तल (५.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्यै तांस्त्रि शा न्स र्वा
न्विक्र मैः रेस्व यम्
ना ना स्त्रैर्म हा सा रै
र्ना यामिस्त लात्