७.३.२१

भगवँल्लब्धवानस्मि वरं कमलयोनितः ।
निवासं न तु मे देवो विदधे स प्रजापतिः ॥

पदच्छेदः

भगवंल्लब्धवान्भगवत् (८.१)–लब्धवत् (√लभ् + क्तवतु, १.१)
अस्मिअस्मि (√अस् लट् उ.पु. )
वरंवर (२.१)
कमलयोनितःकमलयोनि (५.१)
निवासंनिवास (२.१)
(अव्ययः)
तुतु (अव्ययः)
मेमद् (६.१)
देवोदेव (१.१)
विदधेविदधे (√वि-धा लिट् प्र.पु. एक.)
तद् (१.१)
प्रजापतिःप्रजापति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ल्लब्ध वास्मि
रं योनि तः
नि वा संतु मे दे वो
वि धेप्र जा तिः