७.३.२३

एवमुक्तस्तु पुत्रेण विश्रवा मुनिपुंगवः ।
वचनं प्राह धर्मज्ञ श्रूयतामिति धर्मवित् ॥

पदच्छेदः

एवम्एवम् (अव्ययः)
उक्तस्तुउक्त (√वच् + क्त, १.१)–तु (अव्ययः)
पुत्रेणपुत्र (३.१)
विश्रवाविश्रवस् (१.१)
मुनिपुंगवःमुनि–पुंगव (१.१)
वचनंवचन (२.१)
प्राहप्राह (√प्र-अह् लिट् प्र.पु. एक.)
धर्मज्ञधर्म–ज्ञ (८.१)
श्रूयताम्श्रूयताम् (√श्रु प्र.पु. एक.)
इतिइति (अव्ययः)
धर्मवित्धर्म–विद् (८.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

मु क्तस्तु पु त्रे
विश्र वामुनि पुं वः
नं प्रा र्मज्ञ
श्रू तामितिर्म वित्