७.३१.१४

सहस्रशिखरोपेतं सिंहाध्युषितकन्दरम् ।
प्रपात पतितैः शीतैः साट्टहासमिवाम्बुभिः ॥

पदच्छेदः

सहस्रशिखरोपेतंसहस्र–शिखर–उपेत (√उप-इ + क्त, २.१)
सिंहाध्युषितकन्दरम्सिंह–अध्युषित (√अधि-वस् + क्त)–कन्दर (२.१)
प्रपातपतितैःप्रपात–पतित (√पत् + क्त, ३.३)
शीतैःशीत (३.३)
साट्टहासम् (अव्ययः)–अट्टहास (२.१)
इवाम्बुभिःइव (अव्ययः)–अम्बु (३.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

स्रशि रो पे तं
सिं हाध्युषिन्द रम्
प्र पाति तैः शी तैः
साट्ट हामि वाम्बु भिः