७.३१.२२

पुष्पकादवरुह्याशु नर्मदां सरितां वराम् ।
इष्टामिव वरां नारीमवगाह्य दशाननः ॥

पदच्छेदः

पुष्पकाद्पुष्पक (५.१)
अवरुह्याशुअवरुह्य (√अव-रुह् + ल्यप्)–आशु (अव्ययः)
नर्मदांनर्मदा (२.१)
सरितांसरित् (६.३)
वराम्वर (२.१)
इष्टाम्इष्ट (√इष् + क्त, २.१)
इवइव (अव्ययः)
वरांवर (२.१)
नारीम्नारी (२.१)
अवगाह्यअवगाह्य (√अव-गाह् + ल्यप्)
दशाननःदशानन (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्प का रु ह्याशु
र्म दांरि तां राम्
ष्टामि रां ना री
गाह्य शा नः