७.३१.२९

ते यूयमवगाहध्वं नर्मदां शर्मदां नृणाम् ।
महापद्ममुखा मत्ता गङ्गामिव महागजाः ॥

M N Dutt

Therefore like to Särvabhauma and other infuriated elephants going down into the water of the Ganges, do you descend into the water of Narmadā conferring auspiciousness and health.

पदच्छेदः

तेतद् (१.३)
यूयम्त्वद् (१.३)
अवगाहध्वंअवगाहध्वम् (√अव-गाह् लोट् म.पु. द्वि.)
नर्मदांनर्मदा (२.१)
शर्मदांशर्मन्–द (२.१)
नृणाम्नृ (६.३)
महापद्ममुखामहत्–पद्म–मुख (१.३)
मत्तामत्त (√मद् + क्त, १.३)
गङ्गाम्गङ्गा (२.१)
इवइव (अव्ययः)
महागजाःमहत्–गज (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

ते यू गा ध्वं
र्म दांर्म दांनृ णाम्
हाद्ममु खा त्ता
ङ्गामि हा जाः