७.३१.२८

तद्भवन्तः क्षताः शस्त्रैर्नृपैरिन्द्रसमैर्युधि ।
चन्दनस्य रसेनेव रुधिरेण समुक्षिताः ॥

M N Dutt

Being wounded in conflicts with many a king your persons have been pasted with blood.

पदच्छेदः

तद्तद् (२.१)
भवन्तःभवत् (१.३)
क्षताःक्षत (√क्षन् + क्त, १.३)
शस्त्रैर्शस्त्र (३.३)
नृपैर्नृप (३.३)
इन्द्रसमैर्इन्द्र–सम (३.३)
युधियुध् (७.१)
चन्दनस्यचन्दन (६.१)
रसेनेवरस (३.१)–इव (अव्ययः)
रुधिरेणरुधिर (३.१)
समुक्षिताःसमुक्षित (√सम्-उक्ष् + क्त, १.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्भ न्तःक्ष ताः स्त्रै
र्नृ पै रिन्द्र मैर्युधि
न्दस्य से ने
रुधि रे मुक्षि ताः