७.३२.१०

ततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् ।
निर्विकाराङ्गनाभासां पश्यते रावणो नदीम् ॥

पदच्छेदः

ततोततस् (अव्ययः)
ऽनुद्भ्रान्तशकुनांअनुद्भ्रान्त–शकुन (२.१)
स्वाभाव्येस्वाभाव्य (७.१)
परमेपरम (७.१)
स्थिताम्स्थित (√स्था + क्त, २.१)
निर्विकाराङ्गनाभासांनिर्विकार–अङ्गना–आभास (२.१)
पश्यतेपश्यते (√पश् लट् प्र.पु. एक.)
रावणोरावण (१.१)
नदीम्नदी (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तो ऽनु द्भ्रान्तकु नां
स्वा भा व्ये मेस्थि ताम्
निर्वि का राङ्ग ना भा सां
श्य ते रा णो दीम्