७.३२.२९

क्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ।
युद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥

पदच्छेदः

क्षमस्वाद्यक्षमस्व (√क्षम् लोट् म.पु. )–अद्य (अव्ययः)
दशग्रीवदशग्रीव (८.१)
उष्यतांउष्यताम् (√वस् प्र.पु. एक.)
रजनीरजनी (१.१)
त्वयात्वद् (३.१)
युद्धश्रद्धायुद्ध–श्रद्धा (१.१)
तुतु (अव्ययः)
यद्यस्तियदि (अव्ययः)–अस्ति (√अस् लट् प्र.पु. एक.)
श्वस्तातश्वस् (अव्ययः)–तात (८.१)
समरेसमर (७.१)
ऽर्जुनम्अर्जुन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

क्ष स्वाद्य ग्री
ष्य तां नीत्व या
यु द्ध श्र द्धातु द्यस्ति
श्व स्ता रेऽर्जु नम्