७.३२.६५

व्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् ।
ररास हैहयो राजा हर्षादम्बुदवन्मुहुः ॥

M N Dutt

And the king emitted leonine roars again and again as a tiger joyous roars like a cloud, holding a deer under his grasp.

पदच्छेदः

व्याघ्रोव्याघ्र (१.१)
मृगम्मृग (२.१)
इवादायइव (अव्ययः)–आदाय (√आ-दा + ल्यप्)
सिंहराड्सिंह–राज् (१.१)
इवइव (अव्ययः)
दन्तिनम्दन्तिन् (२.१)
ररासररास (√रस् लिट् प्र.पु. एक.)
हैहयोहैहय (१.१)
राजाराजन् (१.१)
हर्षाद्हर्ष (५.१)
अम्बुदवन्मुहुःअम्बुद–वत् (अव्ययः)–मुहुर् (अव्ययः)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

व्या घ्रोमृमि वा दा
सिं राडिन्ति नम्
रा है यो रा जा
र्षाम्बुन्मु हुः