७.३३.१३

तं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् ।
पुलस्त्योवाच राजानं हैहयानां तदार्जुनम् ॥

M N Dutt

Thereupon having enquired of the king about his piety, offerings and the well-being of his sons, Pulastya said to Arjuna, the king of Haihayas.

पदच्छेदः

तंतद् (२.१)
धर्मेधर्म (७.१)
ऽग्निषुअग्नि (७.३)
भृत्येषुभृत्य (७.३)
शिवंशिव (२.१)
पृष्ट्वाथपृष्ट्वा (√प्रच्छ् + क्त्वा)–अथ (अव्ययः)
पार्थिवम्पार्थिव (२.१)
पुलस्त्योवाचपुलस्त्य (१.१)–उवाच (√वच् लिट् प्र.पु. एक.)
राजानंराजन् (२.१)
हैहयानांहैहय (६.३)
तदार्जुनम्तदा (अव्ययः)–अर्जुन (२.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तं र्मेऽग्निषु भृ त्येषु
शि वं पृ ष्ट्वा पार्थि वम्
पु स्त्यो वा रा जा नं
है या नां दार्जु नम्