७.३४.१२

पुष्पकादवरुह्याथ रावणोऽञ्जनसंनिभः ।
ग्रहीतुं वालिनं तूर्णं निःशब्दपदमाद्रवत् ॥

M N Dutt

Thereupon having descended from his Puşpaka car he with silent approached Vāli to bring him under his grasp.

पदच्छेदः

पुष्पकाद्पुष्पक (५.१)
अवरुह्याथअवरुह्य (√अव-रुह् + ल्यप्)–अथ (अव्ययः)
रावणोरावण (१.१)
ऽञ्जनसंनिभःअञ्जन–संनिभ (१.१)
ग्रहीतुंग्रहीतुम् (√ग्रह् + तुमुन्)
वालिनंवालिन् (२.१)
तूर्णंतूर्णम् (अव्ययः)
निःशब्दपदम्निःशब्द–पद (२.१)
आद्रवत्आद्रवत् (√आ-द्रु लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

पुष्प का रु ह्या
रा णोऽञ्ज संनि भः
ग्र ही तुं वालि नं तू र्णं
निःब्द माद्र वत्