७.३४.३०

तत्रापि संध्यामन्वास्य वासविः स हरीश्वरः ।
किष्किन्धाभिमुखो गृह्य रावणं पुनरागमत् ॥

M N Dutt

And having recited his prayers there also, Vali, the son of Indra, and the king of monkeys, carrying Rāvana, returned to the city of Kişikindhā.

पदच्छेदः

तत्रापितत्र (अव्ययः)–अपि (अव्ययः)
संध्याम्संध्या (२.१)
अन्वास्यअन्वास्य (√अनु-आस् + ल्यप्)
वासविःवासवि (१.१)
तद् (१.१)
हरीश्वरःहरि–ईश्वर (१.१)
किष्किन्धाभिमुखोकिष्किन्धा–अभिमुख (१.१)
गृह्यगृह्य (√ग्रह् + क्त्वा)
रावणंरावण (२.१)
पुनर्पुनर् (अव्ययः)
आगमत्आगमत् (√आ-गम् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

त्रापि सं ध्या न्वास्य
वा विः रीश्व रः
कि ष्कि न्धाभिमु खो गृह्य
रा णंपु रा मत्