७.३४.३१

चतुर्ष्वपि समुद्रेषु संध्यामन्वास्य वानरः ।
रावणोद्वहनश्रान्तः किष्किन्धोपवनेऽपतत् ॥

M N Dutt

Having gone through his Sandhyā rites at the four oceans and carrying Răvaņa, that monkeychief was greatly exhausted and (therefore) descended into the gardens of Kişkindhā.

पदच्छेदः

चतुर्ष्वपिचतुर् (७.३)–अपि (अव्ययः)
समुद्रेषुसमुद्र (७.३)
संध्याम्संध्या (२.१)
अन्वास्यअन्वास्य (√अनु-आस् + ल्यप्)
वानरःवानर (१.१)
रावणोद्वहनश्रान्तःरावण–उद्वहन–श्रान्त (√श्रम् + क्त, १.१)
किष्किन्धोपवनेकिष्किन्धा–उपवन (७.१)
ऽपतत्अपतत् (√पत् लङ् प्र.पु. एक.)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

तुर्ष्वपि मु द्रेषु
सं ध्या न्वास्य वा रः
रा णोद्व श्रा न्तः
कि ष्कि न्धो नेऽप तत्