७.३५.४

दृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् ।
समाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः ॥

M N Dutt

When the monkey host lost heart beholding the ocean, Hanumān, consoling crossed over the deep extending over a hundred leagues.

पदच्छेदः

दृष्ट्वोदधिंदृष्ट्वा (√दृश् + क्त्वा)–उदधि (२.१)
विषीदन्तींविषीदत् (√वि-सद् + शतृ, २.१)
तदैषतदा (अव्ययः)–एतद् (१.१)
कपिवाहिनीम्कपि–वाहिनी (२.१)
समाश्वास्यसमाश्वास्य (√समा-श्वासय् + ल्यप्)
कपीन्कपि (२.३)
भूयोभूयस् (अव्ययः)
योजनानांयोजन (६.३)
शतंशत (२.१)
प्लुतःप्लुत (√प्लु + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

दृ ष्ट्वो धिंवि षी न्तीं
दैपि वाहि नीम्
मा श्वास्य पी न्भू यो
यो ना नां तंप्लु तः