७.३५.५३

ऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः ।
त्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥

पदच्छेदः

ऊचुःऊचुः (√वच् लिट् प्र.पु. बहु.)
प्राञ्जलयोप्राञ्जलि (१.३)
देवादेव (१.३)
दरोदरनिभोदराःदर–उदर–निभ–उदर (१.३)
त्वयात्वद् (३.१)
स्मस्म (अव्ययः)
भगवन्भगवत् (८.१)
सृष्टाःसृष्ट (√सृज् + क्त, १.३)
प्रजानाथप्रजानाथ (८.१)
चतुर्विधाःचतुर्विध (१.३)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

चुः प्राञ्ज यो दे वा
रोनि भो राः
त्व यास्म न्सृ ष्टाः
प्र जा ना तुर्वि धाः