७.३७.१०

उद्युक्तानां च सर्वेषां पार्थिवानां महात्मनाम् ।
कालो ह्यतीतः सुमहान्गमने रोचतां मतिः ॥

पदच्छेदः

उद्युक्तानांउद्युक्त (√उत्-युज् + क्त, ६.३)
(अव्ययः)
सर्वेषांसर्व (६.३)
पार्थिवानांपार्थिव (६.३)
महात्मनाम्महात्मन् (६.३)
कालोकाल (१.१)
ह्यतीतःहि (अव्ययः)–अतीत (√अति-इ + क्त, १.१)
सुमहान्सु (अव्ययः)–महत् (१.१)
गमनेगमन (७.१)
रोचतांरोचताम् (√रुच् लोट् प्र.पु. एक.)
मतिःमति (१.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

द्यु क्ता नां र्वे षां
पार्थि वा नां हात्म नाम्
का लोह्य ती तःसु हा
न्ग ने रो तां तिः