७.३७.११

प्रत्यूचुस्तं च राजानो हर्षेण महतान्विताः ।
दिष्ट्या त्वं विजयी राम राज्यं चापि प्रतिष्ठितम् ॥

पदच्छेदः

प्रत्यूचुस्तंप्रत्यूचुः (√प्रति-वच् लिट् प्र.पु. बहु.)–तद् (२.१)
(अव्ययः)
राजानोराजन् (१.३)
हर्षेणहर्ष (३.१)
महतान्विताःमहत् (३.१)–अन्वित (१.३)
दिष्ट्यादिष्टि (३.१)
त्वंत्वद् (१.१)
विजयीविजयिन् (१.१)
रामराम (८.१)
राज्यंराज्य (१.१)
चापि (अव्ययः)–अपि (अव्ययः)
प्रतिष्ठितम्प्रतिष्ठित (√प्रति-स्था + क्त, १.१)

छन्दः

अनुष्टुप् [८]

छन्दोविश्लेषणम्

प्र त्यू चु स्तं रा जा नो
र्षे तान्वि ताः
दि ष्ट्या त्वंवि यी रा
रा ज्यं चा पिप्र तिष्ठि तम्